![]() |
॥दशकुमारचरितम्॥ দশকুমারচরিতম |
Dash Kumar Charitam Bengali Meaning Class 11 Sanskrit
দশ কুমার চরিতম এর বংলা অনুবাদ
একাদশ শ্রেণী সংস্কৃত দশ কুমার চরিতম
॥दशकुमारचरितम्॥
पूर्वपीठिका
प्रथमोच्छ्रासः
ब्रह्माण्डच्छत्रदण्डः श्वतधृतिभवनाम्भोरुहो नालदण्डः
क्षोणीनौकूपदण्डः क्षरदमरसरित्वट्टिकाकेतुदण्डः । ज्योतिश्वक्राक्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोऽङ्घ्रिदण्डः श्रेयस्त्रविक्रमस्ते वितरतु विवुधद्वेषिणां कालदण्डः ॥ अस्ति समस्त नगरीनिकषायमाणा
शश्वदगप्यपष्यविस्तारितमणिगणादिवस्तुजात व्याख्यातरत्नाकरमाहात्म्या मगधदेशशेखरीभूता पुष्पपुरी नाम नगरी । तत्र वीरभटपटलोत्तरङ्गतुरङ्गकुञ्जरम करभीषणसकलरिपुगणकटकजलनिधिमथनमन्दरायमाणसमुद्दण्डभुजदण्डः, पुरंदरपुराङ्गणवनविहरणपरायणगीर्वाणतरुणगणिकागणजेगीयमानयातिमानया
शरदिन्दुकुन्दघनसारनीहारहारमृणालमरालसुरगजनीरक्षीरगिरिशाट्टहासकैलासकाशमूर्त्या रचितदिगन्तरालपूर्त्याकीर्त्याभितः सुरभितः,
स्वलोकशिखरोरुचिररत्नरत्नाकरवेलामेखलायितधरणीरमणीसौभाग्यभोगभाग्यवान्, अनवरतयागदक्षिणारक्षितशिष्टविशिष्टविद्या संभारभासुरभूसुरनिकरः, विरचितारातिसंतापेन प्रतापेन सतततुलितवियन्मध्यहंसः, राजहंसो नाम घनदर्पकंदर्पसौन्दर्यहृद्यनिरवद्यरूपो भूपो बभूव । तस्य वसुमती नाम सुमती लीलावती कुलशेखरमणी रमणी बभूव ।
तस्य राज्ञः परमविधेया धर्मपालपद्मोद्भवसितवर्मनामधेया अमात्यास्त्रयोऽभुवन् । तेषां सितवर्मणः सुमतिसत्यवर्माणौ, धर्मपालस्य सुमन्त्रसुमित्रकामपालाः, पद्मोद्भवस्य सुश्रुतरत्नोद्भवाविति तनयाः समभुवन् । तेषु धर्मशीलः सत्यवर्मा संसारासारतां बुद्ध्वा तीर्थयात्राभिलाषी देशान्तरमगमत्। विटनटवारनारीपरायणो दुर्विनीतः कामपालो जनकाग्रजन्मनोः शासनमतिक्रम्य
भुवं बभ्राम। रत्नोद्भवोऽपि वाणिज्यनिपुणतया पारावारतरणमकरोत्। इतरे मन्त्रिसूनवः पुरन्दरपुरातिथिषु पितृषु यथापूर्वमन्वतिष्ठन्।
ततः
कदाचिन्नानाविधमहदायुधनैपुण्यरचितागण्यजन्यराजन्यमौलिपालिनिहितसायको
मगधनायको मालवेश्वरं प्रत्यग्रसंङ्गामघस्मरं समुत्कटमानसारं मानसारं प्रति सहेलन्यक्कृतजलधिनिर्घोषाहंकारेण भेरीझङ्कारेण
हठिकाकर्णनाक्रान्तभयचण्डिमानं दिग्दन्तावलवलयं
विघूर्णयन्निजभरनमन्मेदिनीभरेणायस्तभुजगराजमस्तकबलेन चतुरङ्गश्चलेन
संयुतः सङ्ग्रमाभिलाषेण रोषेण महताविष्टो निर्ययौ। मालवनाथोऽप्यनेकानेकपयूथसनाथो विग्रहः सविग्रह इव साग्रहोऽभिमुखीभूय भूयो निर्जगाम । तयोर्मध्ये शस्त्राशस्त्रि हस्ताहस्ति परस्पराभिहतसैन्यं जन्यमजनि। तत्र मगधराजः प्रक्षीणसकलसैन्यमण्डलं मालवराजं जीवग्राहमभिगृह्य कृपालुतया पुनरपि स्वराज्ये प्रतिष्ठापयामास ।