![]() |
বনগতা গুহা |
Bonogata Guha Bengali Analysis
বনগতা গুহা এর বাংলা অনুবাদ
Class 12 Sanskrit Banagata Guha
॥वनगतागुहा ॥
पुरा पारसीकानां पुरे कश्यपोऽलिपर्वा चेति सहोदरौ वसतः स्म । तयोर्जनको नातिप्रभूतधनो वभूव। सुतयोस्तुल्यवृत्तिरसौ मृत्युं संनिहितं प्रेक्ष्य निजं वित्तदिकं तयोः समं व्यभजत् । येन तौ विभवाद्यर्जनविषये तुल्यावस्थौ स्याताम्। अथ कश्यपः कस्यचिन्महाधनस्य पुत्रीमुद्वहत् । येन सः सपद्येव नगरवासिभिर्वणिग्वरैस्तुल्यविभवो वभूव विविधैश्च विलासैः कालमनयत्। तथा हि प्रभूतधनत्वात्, ईप्सितं किमपि वस्तु तस्य दूरासदं नासीत् ।
यथालिपर्वणः, तथा तस्य श्वशुरस्यापि, अल्पमेव वित्तमासीत् । येन सः निःश्रीक उटजे कृतावासः, आत्मानं च कलत्रापत्यानि च महता कष्टेन पुपोष । असौ प्रत्यहमुषसि समुत्थाय इन्धनच्छेदनाय विपिनं ब्रजति । छिन्नमिन्धनं त्रयाणां गर्दभानां पृष्ठगतं करोति । पुरमानयति । तत्र च विक्रीणीते। ततश्च लब्धेन धनेन वृत्तिं करोति ।
अथैकदालिपर्वा नित्यमिव वनं गतः । तत्र च पर्याप्तं काष्ठं चिच्छेद । तत्क्षणं दूरे नभसि विसर्पत्पांसुपटलं तस्य दृश्यतामगात् । तत्र च दत्तदृष्टिरयं जज्ञौ -- एष रजस्तोमः, एतमेव देशमुद्दिश्य सवेगं प्रधावतामश्वारोहाणां बलेनोत्थाप्यते । यतोऽस्मिन्देशे राजपुरुषाः न संचरन्ति, तुरंगसादिभिर्दस्युभिर्माव्यम्। ततोऽसावीदृशं प्रच्छन्नं किमपि स्थानं लब्धुं यत्र सः चोरापक्रमणं यावत्क्षेमेण सर्वतो दृशं व्यापारयामास, ततः निभृतस्तिष्ठेत् ।
चोरांस्तु समीपागतान्प्रेक्ष्य, असौ सपदि निकटवर्तिनं महीरुहमारुरोह ! तस्य शाखास्तथा विपुलाः पल्लवघनाश्चासन्, यथा तत्र स्थितोऽयं स्वयं कस्यापि दृष्टिगोचरो न भवेत्। ततो नातिदूरे विशालः शिलोच्चयो वर्तते स्म ।
ऋजून्नतस्य यस्य शिखरं मनुजस्य दूरासदमासीत् । अथ ते हयस्थाः शैलस्य पादमासाद्य अवारोहन् । अलिपर्वा च तान्गणयित्वा
विंशतिद्वयमेतानजानात्। तैः स्वस्वसप्तयो दृढगुल्मशाखासु बद्धाः, तेषां वल्गा अपनीताः, कण्ठेषु च धान्यस्यूता आसञ्जिताः । अथ सर्वेऽपि ते स्वस्वपर्याणगोणीः आददिरे। या भारवत्तया रजतमहारजताभ्यां पूर्णा इवावभूः ।
अन्येभ्यो विशिष्टाकारस्तेषामेकतमः, अलिपर्वणा नायकत्वेन गृहीतः। सः शैलाग्रभागं प्राप्नोत्, पपाठ च-
स्कन्दराज नमस्तेऽस्तु चौर्यपाटवदेशिक । दस्युदेव द्वारमिदं विवृतं कृपया कुरु ॥
पठितमात्र एतस्मिन्पद्ये द्वारमेकमपावृतम् येन गुहान्तर्गामी मार्गः प्रकाशतामगात् । तेन मार्गेण सर्वानप्यनुचरान्प्रविष्टान्प्रेक्ष्य सोऽग्रणीः स्वयमपि प्रविष्टः। द्वारं च स्वत एव संवृतम् ।
ते चोराः कंचित्कालं गुहायामेव तस्थुः । तावत्तु अलिपर्वा वृक्षशखायां स्थितः । सः चिन्तयामास -- यद्यहं वृक्षादवरुह्य गृहसकाशं गच्छामि, ते चोराः
गुहाद्वहिरागच्छति, अपि च प्राणसंशयं मे भवति - इति विचिन्त्य सः तत्रावतिष्ठत्। अथ केनचित्कालेन द्वारमपावृतम्। तेन च प्रथमं नायको वहिराजगाम ।
द्वारदेशे च स्थित्वा सोऽग्रणीः सर्वान्सहचरान्बहिर्निःसरतो ददर्श । ततश्च पद्यमेतदंपाठीत्---
- स्कन्दराज नमस्तेऽस्तु चौर्यपाटवदेशिक । दस्युदेव द्वारमिदं संवृतं कृपया कुरु ॥
पठितमात्रेऽस्मिन्पद्ये गुहाद्वारं स्वयमेव संवव्रे पूर्वमिवैतदपि पद्यमलिपर्वा स्फुटमाकर्णयत्। तूष्णीं चावर्त्य कण्ठगतमकरोत् ।
अथ सर्वे चोराः स्वस्वाश्वानारुह्य निष्क्रान्ताः । अलिपर्वा स्वस्थानं न तत्याज । स हि शशङ्के- सद्य एवावतरेयं चेत्, ममापक्रमणात्प्रागेव, कदाचिद्विस्मृतं किमपि वस्तुं नेतुं चोरः कश्चन निवर्तेत, दृष्टमात्रं च मां बन्दीकुर्वीत इति ।
सः चिन्तयामास च-- किं मया प्रोक्तेन पूर्वपद्येन द्वारमिदं विघटेत ? पश्यामि तावत्। ततः परं दैवस्यायत्तम् । एवं विचिन्त्यासौ बृक्षतोऽवतीर्य गुल्ममध्येन शैलमुखं यावद् बव्राज, पद्यं चैतत्पपाठ-
स्कन्दराज नमस्तेऽस्तु चौर्यपाटवदेशिक। दस्युदेव द्वारमिदं विवृतं कृपया कुरु ॥ अस्मिन्गीतमात्रे द्वारं विवृतम् ।
गुहाभ्यन्तरं प्रविश्य अलिपर्वा सर्वतः राशीकृतानि भक्ष्याणि, महार्घाणां चीनांशुकानां, कनकस्य रजतस्य च स्थूलस्थूलान्शलाकान्ददर्श । ततोऽसौ स्वर्णपूर्णास्तावतीरजिनगोणीराददे, यावतीर्बोढुं तस्य गर्दभाः प्रभवेयुः । ताश्च गोणीर्यातायातैद्वारदेशमानयत्।
अथ विवृतिमन्त्रेण द्वारं विवृत्य ता गोणीर्णिष्कास्य रासभपृष्ठान्यारोप्य काष्ठैश्छादयामास। ततोऽसौ संवृतिमन्त्रं व्याजहार। द्वारं च सपदि संवृतम्। ततोऽयं द्रुततरं क्रामन्नगरं निवृत्तः ।