বাসন্তিকস্বপ্নম | Class 12 Sanskrit Basantik Sapnam Bengali Analysis | বাসন্তিকস্বপ্নম বাংলা অনুবাদ | দ্বাদশ শ্রেণি সংস্কৃত |

॥वासन्तिकस्वप्नम्॥বাসন্তিকস্বপ্নম
॥वासन्तिकस्वप्नम्॥বাসন্তিকস্বপ্নম


 বাসন্তিকস্বপ্নম বাংলা অনুবাদ

দ্বাদশ শ্রেণি সংস্কৃত বাসন্তিকস্বপ্নম

 Class 12 Sanskrit Basantik Sapnam Bengali Analysis

 Basontik Sopnom 


॥वासन्तिकस्वप्नम्॥

বাসন্তিকস্বপ্নম

प्रथमोऽङ्कः ।

राजा इन्द्रवर्मा, कनकलेखा, प्रमोदश्च


राजा - प्रिये कनकलेखेऽद्य कुहूर्नेयं दवीयसि ।

चतुर्भिर्दिवसैर्भाविन्यप्यहं दीनमानसः ॥ वसामि मदनाक्रान्तः शशाङ्कस्त्वतिनिर्घृणः । यतोऽसौ क्षीयमाणोऽपि क्षीयते सत्वरं न मे ॥ अस्मदुद्द्वाहमुद्दिश्य सोऽस्मि पर्युत्सुकः सखि। किं करोमि वरारोहे, नाडिकाऽपि युगायते ॥

कनकलेखा– वल्लभ, दिनचतुष्टयं तु प्रायो रात्रचतुष्टयं भूत्वा क्षणमिव निद्रालुभिरस्माभिर्नीयमानमचिरेणैव दर्शमानेष्यति यस्य निशायामावयोः . परिणयमहोत्सवो भविष्यति । तत्किमिति द्यूते महाराजेन ।

राजा-रे प्रमोद, गच्छ सम्प्रति प्रतिरथ्यमस्मन्नगरस्य । तथा कुरुष्व यथा

सर्वेऽपि युवानो महोत्सवाभिनिविष्टचित्ताः परमाह्लादभरिता वर्तेरन् । दुःखं

विद्रावय वैवस्वतनगरमावर्जय सर्वतः प्रमोदम् ।

प्रमोदः - यथाज्ञापयति देवः । (इति प्रणम्य निष्क्रान्तः) राजा- प्रणयवति कनकलेखे, तस्मादद्य तादृशमप्रशस्तमार्गमुज्झित्वा महोत्सवप्रमोदप्रसाघनपूर्वं त्वां परिणेष्ये ।

(नेपथ्ये पदशब्द इव निपुणं निरूप्य )


किमयमागच्छन् वृद्धः कोपशोकाविष्ट इव दृश्यते । तमनु काचिदिन्दुवदना च । (ततः प्रविशति इन्दुशर्मा कौमुदी च ।)

इन्दुशर्मा – (हस्तमुद्यम्य) विजयतास्माकमवनिपः ।


राजा-नमो भवत इन्दुशर्मन, कथं कार्यातुर इव दृश्यते भवान्?


इन्दुशर्मा - राजन्नियं मे दुहिता मदाज्ञामुल्लङ्घयेदित्यतिदुःखितोऽहम्। महाराज, दीयतां दयार्द्र चित्तम्। यावदियं वराकी मकरन्दमुपयम्य मन्मतन्नानुवर्तते तावदस्मद्देशाचारमनुसृत्य पित्राज्ञाऽतिवर्तिनोऽपत्यस्य यावान्दण्डो विहितस्तावन्तमेषाऽनुभवत्वित्याज्ञां दत्त्वाऽहमनुग्राह्यपक्षे गणतव्य इति प्रार्थये ।


राजा - (कौमुदीं प्रति) कथय वासु, किं वा युक्तं समयविरुद्धाचरणम्। अपि च, रमणीयोऽयं तरुणस्ते वरो मकरन्दः ।


कौमुदी - महीपते, तथैव बसन्तोऽपि ।


राजा - बालिके ! बसन्तः प्रियदर्शनोऽपि पितृपक्षपातोऽस्मिन्निति तव


प्रेयान्मकरन्द एव ।


कौमुदी --- यदि मे जनको वीक्षते मदीक्षणेनैनं वसन्तं तदा बहुमान


एव मन्मानसम् ।


राजा - परं तद्विवेचनामाश्रित्य खलु वीक्षणीयं त्वया ।


कौमुदी - करुणानिधे क्षम्यतां दासजनस्यायमपराधः । न जाने केन वा कारणेन मे मनस्येतादृशनिर्णयो जातः । विस्मृतं च मया किं कर्तव्यम् ।


राजा- अयि भद्रे, दर्शनीयं ते वपुः, अयातयामं वयः । यदि पितरं नानुवर्तसे तदा शरणं भवति मरणमथवा यावज्जीवं परिणयाकरणम् । एतादृशकुलसमयाचारविरुद्धंगामिन्या सुखं नाम कथं भवेत्। एषा कल्याणी, न कदापि सुखावहा । अतः जनकस्य ते आदेशः पालनीयः । कौमुदी - महाराज, वसन्तं विहाय नान्यं पश्येयम्। तदर्थं जीवितमपि त्यजेयम्। यावदायुः परिणयं विनापि वसेयम् । एष एव निश्चयोऽस्या मन्दभागिन्याः

(नेपथ्ये मृदङ्गध्वनिः)

कनकलेखा- राजन्, संगीतशालाभ्यन्तरे बहबः अस्मदागमनं प्रतीक्षन्ते । राजा- परं कार्यपरतया विस्मृतमेतत्सर्वमपि । तत्वरितं गम्यते। अयि अस्मद्दण्डनीतिरित्यवधार्यताम्। प्रिये कनकलेखे, सम्प्रति साधयामः ।


कौमुदि ! सम्यगालोच्य तातमेवानुसर नोचेद्भज मरणम्।


(सर्वे निष्क्रान्ताः)।

Newton Hossain

Newton Hossain, the founder of this blog, is a Lecturer of the English Language and also loves to explain Life science and Geography.

Post a Comment (0)
Previous Post Next Post